Lakshmi Narasimha Pancharatnam : लक्ष्मी नृसिंह पञ्चरत्नम् भगवान श्री लक्ष्मी नृसिंह जी को समर्पित हैं। श्री लक्ष्मी नृसिंह पञ्चरत्नम् आदि के बारे में बताने जा रहे हैं।
लक्ष्मी नृसिंह पञ्चरत्नम् — Lakshmi Narasimha Pancharatnam
॥ श्रीलक्ष्मीनृसिंहपञ्चरत्नम् ॥
त्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं,
प्रतिबिम्बालंकृतिधृतिकुशलो बिम्बालंकृतिमातनुते ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां,
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ १ ॥
शुक्त्तौ रजतप्रतिभा जाता कतकाद्यर्थसमर्था चे-,
द्दुःखमयी ते संसृतिरेषा निर्वृतिदाने निपुणा स्यात् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां,
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ २ ॥
आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरोः,
गन्धरसाविह किमु विद्येते विफलं भ्राम्यसि भृशविरसेस्मिन् ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां,
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ३ ॥
स्रक्चन्दनवनितादीन्विषयान्सुखदान्मत्वा तत्र विहरसे,
गन्धफलीसदृशा ननु तेमी भोगानन्तरदुःखकृतः स्युः ।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां,
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ४ ॥
तव हितमेकं वचनं वक्ष्ये शृणु सुखकामो यदि सततं,
स्वप्ने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति।
चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां,
भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ ५ ॥
इति श्रीमच्छंकर भगवतः कृतौ लक्ष्मीनृसिंह पञ्चरत्नम् सम्पूर्णम् ॥