Varaha Ashtottara Shatanamavali Stotram (108 Names) – Lyrics & Meaning: श्री वराह अष्टोत्तर शतनामावली स्तोत्रम् (वराह के 108 नाम) – अर्थ, लाभ व PDF श्री वराह अष्टोत्तर शतनामावली स्तोत्रम् भगवान श्री विष्णु जी को समर्पित हैं। भगवान वराह के 108 नाम भगवान वराह के दिव्य नाम हैं। जो इस वराह अष्टोत्तर शतनामावली का पाठ करता है वह दरिद्रता, दुख और बंधन से खुद को दूर करता है। उसे पैतृक संपत्ति, जमीन और घर मिलता है। भगवान श्री विष्णु जी का ही वराह अवतार हैं। भगवान श्री विष्णु जी ने वराह अवतार लेकर पृथ्वी की रक्षा की थी। यह श्री वराह अष्टोत्तर शतनामावली स्तोत्रम् श्रीवराहपुराण के अंतर्गत से लिया गया हैं।
108 Names of Lord Varaha (Ashtottara Shatanama Stotram) with Full Meaning | 108 Sacred Names & Benefits: श्री वराह अष्टोत्तर शतनामावली – संपूर्ण लिरिक्स, हिंदी अर्थ व महत्व
हमारी वेबसाइट FreeUpay.in (फ्री उपाय.इन) में रोजाना आने वाले व्रत त्यौहार की जानकारी के अलावा मुहूर्त, पूजा विधि, मंत्र, साधना, व्रत कथा, ज्योतिष उपाय, लाल किताब उपाय, स्तोत्र आदि महत्वपूर्ण जानकारी उबलब्ध करवाई जाएगी सभी जानकारी का अपडेट पाने के लिए दिए गये हमारे WhatsApp Group Link (व्हात्सप्प ग्रुप लिंक) क्लिक करके Join (ज्वाइन) कर सकते हैं।
हर समस्या का फ्री उपाय (Free Upay) जानने के लिए हमारे WhatsApp Channel (व्हात्सप्प चैनल) से जुड़ें: यहां क्लिक करें (Click Here)
श्रीमुष्णमाहात्म्यतः शङ्करः
नारायण मम ब्रूहि येन तुष्टो जगत्पतिः ।
तूर्णमेव प्रसन्नात्मा मुक्तिं यच्छति पापहा ॥ १॥
सदा चञ्चलचित्तानां मानवानां कलौ युगे ।
जपे च देवपूजायां मनो नैकत्र तिष्ठति ॥ २॥
तादृशा अपि वै मर्त्या येन यान्ति परां गतिम् ।
अन्येषां कर्मणां पुर्तिर्येन स्यात् फलितेन च ॥ ३॥
तादृक् स्तोत्रं मम ब्रूहि महापातकनाशनम् ।
एकैकं च वराहस्य नाम वेदाधिकं किल ॥ ४॥
तादृशानि च नामानि वराहस्य महात्मनः ।
सन्ति चेद्ब्रूहि विश्वात्मन् श्रेतुं कौतूहलं हि मे ॥ ५॥
श्रीनारायणः शृणु शङ्कर वक्ष्यामि वराहस्तोत्रमुत्तमम् ।
दुष्टग्रहकुठारोऽयं महापापदवानलः ॥ ६॥
महाभयगिरीन्द्राणाम् कुलिशं मुक्तिदं शुभम् ।
कामधुक् कामिनामेतद्भक्तानां कल्पपादपः ॥ ७॥
वक्ष्यामि परमं स्तोत्रं यत्सुगोप्यं दुरात्मनाम् ।
नारायण ऋषिश्चात्र श्रीवराहश्च देवता ॥ ८॥
छन्दोऽनुष्टुप् च हुं बीजं ह्रीं शक्तिः क्लीं च कीलकम् ।
वराहप्रीतिमुद्दिश्य विनियोगस्तु निर्वृतौ ॥ ९॥
न्यसेद्धृदयं द्रेकारं वराहाय च मूर्धनि ।
नमो भगवते पश्चाच्छिखायां विन्यसेद्बुधः ॥ १०॥
ज्ञानात्मने च नेत्राभ्यां कवचाय बलात्मने ।
भूर्भुवः सुव इत्यस्त्राय फटित्यन्तं न्यसेद्बुधः ॥ ११॥
यज्ञाय यज्ञरूपाय यज्ञाङ्गाय महात्मने ।
नमो यज्ञभुजे यज्ञकृते यज्ञेश्वराय च ॥ १२॥
यज्ञस्य फलदात्रे च यज्ञगुह्याय यज्वने ।
एभिर्नामपदैर्दिव्यैरङ्गुलिन्यासमाचरेत् ॥ १३॥
अन्नदात्रे नम इति करपृष्ठं च मार्जयेत् ।
नमः श्वेतवराहाय स्वाहान्तेन महामतिः ॥ १४॥
व्यापकन्यासकृत्पश्चाद्ध्यायेद्देवमधोक्षजम् ।
ध्यानम्-
ॐ श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं दंष्ट्राकरालवदनं धराय समेतम् ।
ब्रह्मादिभिः सुरगणैः परिसेव्यमानं ध्यायेद्वराहवपुषं निगमैकवेद्यम् ॥ १५॥
श्रीवराहो महीनाथः पूर्णानन्दो जगत्पतिः ।
निर्गुणो निष्कलोऽनन्तो दण्डकान्तकृदव्ययः ॥ १६॥
हिरण्याक्षान्तकृद्देवः पूर्णषाड्गुण्यविग्रहः ।
लयोदधिविहारी च सर्वप्राणिहिते रतः ॥ १७॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
वेदान्तवेद्यो वेदी च वेदगर्भः सनातनः ॥ १८॥
सहस्राक्षः पुण्यगन्धः कल्पकृत् क्षितिभृद्धरिः ।
पद्मनाभः सुराध्यक्षो हेमाङ्गो दक्षिणामुखः ॥ १९॥
महाकोलो महाबाहुः सर्वदेवनमस्कृतः ।
हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः ॥ २०॥
यज्ञभृद्यज्ञकृत्साक्षी यज्ञाङ्गो यज्ञवाहनः ।
हव्यभुघव्यदेवश्च सदाव्यक्तः कृपाकरः ॥ २१॥
देवभूमिगुरुः कान्तो धर्मगुह्यो वृषाकपिः ।
स्रुवत्तुण्डो वक्रदंष्ट्रो नीलकेशो महाबलः ॥ २२॥
पूतात्मा वेदनेता च वेदहर्तृशिरोहरः ।
वेदादिकृद्वेदगुह्यः सर्ववेदप्रवर्तकः ॥ २३॥
गभीराक्षस्त्रिधर्मा च गम्भीरात्मा महेश्वरः ।
आनन्दवनगो दिव्यो ब्रह्मनासासमुद्भवः ॥ २४॥
विन्धुतीरनिवासी च क्षेमकृत्सात्त्वतां पतिः ।
इन्द्रत्राता जगत्त्राता महेन्द्रोद्दण्वर्गहा ॥ २५॥
भक्तवश्यो सदोद्युक्तो निजानन्दो रमापतिः ।
स्तुतिप्रियः शुभाङ्गश्च पुण्यश्रवणकीर्तनः ॥ २६॥
सत्यकृत्सत्यसङ्कल्पः सत्यवाक्सत्यविक्रमः ।
सत्येन गूढः सत्यात्मा कालातीतो गुणाधिकः ॥ २७॥
परं ज्योतिः परं धाम परमः पुरुषः परः ।
कल्याणकृत्कविः कर्ता कर्मसाक्षी जितेन्द्रियः ॥ २८॥
कर्मकृत्कर्मकाण्डस्य सम्प्रदायप्रवर्तकः ।
सर्वान्तकः सर्वगश्च सर्वार्थः सर्वभक्षकः ॥ २९॥
सर्वलोकपतिः श्रीमान् श्रीमुष्णेशः शुभेक्षणः ।
सर्वदेवप्रियः साक्षीत्येतन्नामाष्टकं शतम् ॥ ३०॥
सर्ववेदाधिकं पुण्यं वराहस्य महात्मनः ।
सततं प्रातरुत्थाय सम्यगाचम्य वारिणा ॥ ३१॥
जितासनो जितक्रोधः पश्चान्मन्त्रमुदीरयेत् ।
ब्राह्मणो ब्रह्मविद्यां च क्षत्रियो राज्यमाप्नुयात् ॥ ३२॥
वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ।
सद्यो रोगाद्विमुच्येत शतवारं पठेद्यदि ॥ ३३॥
सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् ।
सद्यो रोगाद्विमुच्येत शतवारं पठेद्यदि ॥ ३३॥
सकामो लभते कामान्निष्कामो मोक्षमाप्नुयात् ।
बालरोगग्रहाद्याश्च नश्यन्त्येव न संशयः ॥ ३४॥
राजद्वारे महाघोरे सङ्ग्रामे शत्रुसङ्कटे ।
स्तोत्रमेतन्महापुण्यं पठेत्सद्यो भयापहम् ॥ ३५॥
इत्येतद्धारयेद्यस्तु करे मूर्ध्नि हृदन्तरे ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ३६॥
राजप्रसादजनकं सर्वलोकवशङ्करम् ।
आभिचरिककृत्यान्तं महाभयनिवारणम् ॥ ३७॥
शतवारं पठेद्यस्तु मुच्यते व्याधिबन्धनात् ।
यः पठेत्त्रिषु कालेषु स्तोत्रमेतज्जितेन्द्रियः ॥ ३८॥
वैकुण्ठवासमाप्नोति दशपुर्वैर्दशापरैः ।
अश्वत्थमूलेऽर्कवारे स्थित्वा स्तोत्रं पठेद्यदि ॥ ३९॥
अपस्मारविनाशः स्यात्क्षयरोगश्च नश्यति ।
मध्याह्ने तु गुरोर्वारे जलमध्ये शतं जपेत् ॥ ४०॥
कुष्ठव्याधिविनाशः स्यात् ज्ञानं चैवाधिगच्छाति ।
प्रातः प्रातः पठेद्यस्तु स्तोत्रमेतच्छुभावहम् ॥ ४१॥
अन्त्यकाले स्मृतिर्विष्णोर्भवेत् तस्य महात्मनः ।
अष्टोत्तरशतैर्दिव्यैर्नामभिः किटिरूपिणः ॥ ४२॥
तुलसीमर्पयेद्यस्तु स मुक्तो नास्ति संशयः ।
पूजाकाले वराहस्य नाम्नामष्टोत्तरं शतम् ॥ ४३॥
जप्त्वाऽथ जापयित्वा वा साम्राज्यमधिगच्छाति ।
निष्कामो मोक्षमाप्नोति नात्र कार्या विचारणा ॥ ४४॥
अष्टोत्तरसहस्रं तु यः पठेन्नियतेन्द्रियः ।
पायसेन तथा हुत्वा वन्ध्या पुत्रवती भवेत् ॥ ४५॥
नमः श्वेतवराहाय भूधराय महात्मने ।
निरञ्जनाय सत्याय सात्त्वतां पतये नमः ॥ ४६॥
इति मन्त्रं पठेन्नित्यमन्ते मोक्षमवाप्नुयात् ॥ ४७॥
इति श्रीवराहपुराणे श्रीमुष्णमाहात्म्ये नवमोऽध्यायः ।
नीलवराहपरब्रह्मणे नमः ।
इति श्रीवराहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
वैदिक उपाय और 30 साल फलादेश के साथ जन्म कुंडली बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री बनवाए केवल 500/- रूपये में: पूरी जानकारी यहां पढ़े